Sunday, October 15, 2023

महान् शिवानन्द:।

शिवानन्दप्रेमामृतस्निग्धचित्तं

चिदानन्दबोधं परब्रह्मनिष्ठम्।

दयापूर्णहृद्दत्तवेदान्तसारं

शिवानन्द देवं सदाहं नमामि।। (1)


जरामृत्युरोगहरं महादिव्यभेषजम्

तमव्याप्तविश्वस्य ज्वलद्ज्ञानभास्करम् ।

प्रेमार्णवं तं चलत्प्रेमालयं

शिवानन्दगुरुं तं सदाहं स्मरामि।। (2)


निजानन्दरूपस्थध्यानस्वरूपं

प्रेमार्थिभिरन्वेषितं प्रेमरत्नम्।

प्रेमाम्बुजानन्दहृद्भिस्सुपूजितं 

शिवानन्दम् आनन्दम् अहं स्मरामि।। (3)


शिवानन्दबोधस्थसर्वान्तरङ्गं 

महामन्त्रजपयोगफलप्रकाशकम्।

प्रेमप्रवाहाकर्षितसर्वलोकं 

गुरुं शिवानन्दं सदाहं स्मरामि।। (4)


प्रेमप्रदानम् अध्यात्मगीतं 

प्रेमाधारं जीवगीतम् इति।

कूजन्तं गायन्तम् आनन्दकोकिलं

शिवानन्दरूपं तं गुरुं नमामि।। (5)



मङ्गलं शिवानन्दाय

ज्ञानेश्वराय मङ्गलम्।

मङ्गलं ज्ञानामृतरूपाय

मङ्गलं गानामृतरूपाय

मङ्गलं सद्गुरुनाथाय

श्रीशिवानन्दाय मङ्गलम् ।। 




No comments: